आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत रचना - पात्रताम् अनुसृत्य (Samskrit text - पात्रताम् अनुसृत्य)

पात्रताम् अनुसृत्य

उद्यानपालकेन श्रावितेन पद्येन सन्तुष्टः राजा 'मनोभिलषितं याचतु' इति अवदत्। तदा उद्यानपालकः सहस्रसुवर्णनाणकानि अयाचत्। किञ्चित् 'न्यूनं याचतु' इति यदा राजा अवदत् तदा एकं नाणकं ददातु इति अवदत् उद्यानपालकः। आश्चर्यस्तब्धः राजा अपृच्छत् 'किमर्थम् अनयोः मध्ये एकां संख्यां उक्तवान्' इति। तदा सः अवदत् 'पुत्र्याः‌ विवाहार्थं धनम् अपेक्षितम्। प्रथमवारम् अहं भवतः स्थानं, पात्रतां व्यक्तित्वं दृष्ट्वा सहस्रं नाणकानि अयाचम्। 'न्यूनं याचतु' इति यदा उक्तवान् तदा तु अहं मम स्थानं पात्रतां परिगणय्य एकं नाणकम् अयाचम्' इति|लज्जितः राजा तस्मै स्वस्थान-व्यक्तित्व-पात्रतानुगुणं सहस्रनाणकानि एव दत्तवान्।


विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

Hareshkumar Lakhani
Hareshkumar Lakhani2026-06-13 03:39:58
' पात्रताम् अनूसृत्य ' एकं उत्तमं रचना। 💐