आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत रचना - काकः सर्पः च (Samskrit text - काकः सर्पः च)

काकः सर्पः च

कस्मिञ्चित् वने अनेकाः काकाः वृक्षस्य शाखासु वसन्तिवृक्षस्य अधः कोटरे एकः सर्पः अस्तियदा काकाः प्रातः बहिः आहरार्थं गच्छन्ति तदा सर्पः वृक्षम् आरुह्य काकशिशून् खादति। काकाः दुःखिताः । तदन्तरं ते एकं वृद्धं काकं साहाय्यं प्रार्थयन्ति । वृद्धकाकस्य उपदेशम् अनुसृत्य एकः धीरः काकः नदीं गच्छतितत्र राजकुमारी स्नानं करोतितस्याः आभरणं नदीतीरे शिलायाम् अस्ति। काकः आभरणम् आदाय वृक्षं प्रति गच्छतितदा राजकुमार्याः सेवकाः काकम् अनुसृत्य वृक्षं प्रति गच्छन्तिकाकः आभरणं वृक्षस्य कोटरे क्षिपतिसेवकाः तत् दृष्ट्वा कोटरस्य बहिः काष्ठैः ताडयन्ति। सर्पः बहिः आगच्छति। सेवकाः सर्पं मारयन्ति ।


विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.