संस्कृत रचना - कः अरुक् (Samskrit text - कः अरुक्)
कः अरुक्
एकः पक्षी अस्ति । सः आकाशे अत्र तत्र गच्छति। सः पुनः पुनः वदति। कः अरुक् कः अरुक् कः निरोगः भवति । पक्षी द्वारं द्वारम् अटति। एकम् एव प्रश्नं पृच्छति। जनाः उपहासं कुर्वन्ति। कोऽपि उत्तरं न ददाति । पक्षी निराशः भवति । सः वनं गच्छति। वृक्षे उपविशति च। वृक्षस्य अधः वैद्यकः वाग्भट्टः अस्ति । पक्षी पुनः वदति । कः अरुक् इति। वाग्भट्टः शृणोति । सः वदति। हितभुक् मित्भुक् ऋतभुक् इति । अर्थः अस्ति । यः हितकारी भोजनं करोति यः मितं भोजनं करोति यः ऋतुथा भोजनं करोति सः एव नीरोगः भवति इति । सन्तुष्टः पक्षी ऋषिसमीपम् आगच्छति। सः ऋषिं नमति। अनन्तरं स्वस्थानं गच्छति ।।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...