संस्कृत रचना - कृष्णो गोपी च (Samskrit text - कृष्णो गोपी च)
कृष्णो गोपी च
कृष्णो गोकुले वसति । प्रतिदिनं गोप्यस्तेन सह नृत्यन्ति। कृष्णो वेणुगानमपि करोति । तदा मृगाः खगाश्च तन्मधुरं गानं श्रोतुमागच्छन्ति । कृष्णो गोकुलस्य प्रियः । सर्वे तस्मै क्षीरं दधि च यच्छन्ति। एका गोपी सर्वदा कृष्णमेव स्मरति। सा प्रतिदिनं क्षीरं दधि च विक्रेतुं विथ्यां गच्छति । यदा सा विथ्यां गच्छति तदा सा कृष्णमेव स्मरति स्वकार्यं विस्मरति । एकदा सा क्षीरं दधीति न घोषति परन्तु गोविन्द दामोदर माधवे इति एव उच्चैः घोषति । तस्याः सख्यस्तदा हसन्ति । सा गोपी लज्जिता भवति । परन्तु कृष्णस्तत्रागच्छति। तं दृष्ट्वा सन्तुष्टा भवति ।।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...