बलमेव जीवनं दुर्बलता मृतिरेव हि
पुत्रः
— पितः! स्वामीविवेकानन्दः कः आसीत्?पिता
— सः महान् सज्जनः दार्शनिकः च आसीत्।पुत्रः
— सः राष्ट्राय किं किम् अकरोत्?पिता
— सः भारतस्य संस्कृतिं विदेशेषु प्रसिद्धम् अकरोत्।पुत्रः
— सः यूनां प्रेरणास्रोतः अस्ति वा?पिता
— नूनम्, तस्य जीवनं युवभ्यः आदर्शरुपेण मार्गदर्शकः अस्ति।पुत्रः
— तस्य प्रसिद्धतमं वाक्यं किम्?पिता
— "उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत" इति।पुत्रः
— वयम् अपि तस्य वर्णितमार्गे गन्तुं शक्नुमः वा?पिता
— यदि सत्येन श्रमेण च जीवामः तर्हि शक्यते।पुत्रः
— तस्य कृते किमपि विशिष्टं दिनम् आचर्यते वा?पिता
— जनवरीमासस्य द्वादशदिनाङ्के राष्ट्रिययुवादिवस-रुपेण तस्य जन्मदिवसम् उपलक्ष्य आचर्यते।पुत्रः
— तर्हि अद्य (जुलाईमासस्य चतुर्थदिनाङ्के) कः दिवसः अस्ति?पिता
— अद्य तस्य स्मृतिदिवसः – वयं श्रद्धाञ्जलिं दद्मः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...