क्त्वाप्रत्ययः
सीता
— हे गीते! भोजनं कृत्वा कुत्र गच्छसि?गीता
— भोजनं कृत्वा अहम् उद्यानं गच्छामि।सीता
— उद्यानं गत्वा त्वं किं करिष्यसि?गीता
— उद्यानं गत्वा विश्रामं च कृत्वा पुस्तकं पठिष्यामि।सीता
— अहम् अपि एतानि स्थापयित्वा त्वया सह गच्छेयम्।गीता
— उत्तमम्! कानिचित् फलानि स्वीकृत्य चलावः।सीता
— फलानि खादित्वा जलं पीत्वा चलावः।गीता
— एवम्। पुस्तकं गृहात् नीत्वा आगच्छामि।सीता
— शीघ्रम् आगत्य काञ्चित् मम वार्तां श्रुत्वा गच्छतु।गीता
— हस्तौ प्रक्षालनं कृत्वा आगच्छामि।सीता
— त्वया सह मिलित्वा सदा सुखम् अनुभूयते।गीता
— चलताम् । उद्यानं गत्वा पठनम् अपि करणीयम्।सीता
— नूनमेव।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...