मातुलः आगमिष्यति
पुत्री
— अम्ब ! अम्ब ! मातुलः नागपुरतः आगच्छति।अम्बा
— वत्से ! मातुलस्य आगमनं कः सूचितवान् ?पुत्री
— अम्ब ! तातः उक्तवान् अद्य मातुलः आगच्छति इति। मातुलः आगच्छति चेत् किं किं करोति ?अम्बा
— प्रथमं सः आगच्छतु। अनन्तरं किमपि करोमि ।पुत्री
— तातः असत्यं वदति वा ? किमर्थम् एवं वदति भवती ?अम्बा
— नैव वत्से ! तातः असत्यं न वदति। किन्तु भवत्याः मातुलः उक्ते दिने नागच्छति। अतः तथा उक्तवती।पुत्री
— अद्य मातुलः नागच्छति चेत् पुनः कदापि तेन सह सम्भाषणं न करोमि ।अम्बा
— किमर्थं पुत्री तावती निरीक्षा वा ? पश्यतु, बहिः तातेन सह कोऽपि सम्भाषणं करोति।पुत्री
— अम्ब ! मातुलः आगतवान्। मातुल! आगच्छतु मम क्रीडासाधनानि दर्शयामि। कति वर्षाणि अभवन्। किम् अस्माकं स्मरणं न अभवत्?पिता
— वत्से! किम् एकेन श्वासेन एव सर्वं वदिष्यति ? प्रथमं मातुलाय पानीयं ददातु ।अम्बा
— अहो! अद्य पूर्वदिशि सूर्योदयः न जातः किम्?पिता
— सूर्योदयः पूर्वदिशि एव। परन्तु दिवाकरः तु अस्माकं पुरतः उपस्थितः। अस्तु, इदानीं तस्मै उपवेशनस्य स्थानं ददातु।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...