क्रीडा अपि आवश्यकी
माता
— पुत्र! भवान् एवं सदा क्रीडति चेत् उत्तीर्णः न भविष्यति। ज्ञानमपि न प्राप्स्यति।अमरः
— अम्ब! किमर्थं तथा वदति? अहं केवलं न क्रीडिष्यामि। अनन्तरं पठिष्यामि।माता
— गृहसदस्याः सर्वे वदन्ति यत् भवान् सर्वदा क्रीडति। न पठिष्यति इति।अमरः
— अहं सर्वदा क्रीडामि। किन्तु कदापि अनुत्तीर्णः न भविष्यामि। भवत्याः चिन्ता मास्तु। पश्यतु गतमासस्य परीक्षफलितांशम्।माता
— वत्स! एतत् अङ्कपत्रं भवतः एव वा ?अमरः
— सत्यम् अम्ब ! भवत्याः मयि विश्वासः नास्ति यतः सर्वदा अहं क्रीडिष्यामि इति ननु। कक्ष्यायाम् अहमेव प्रथमं स्थानं प्राप्तवान् ।माता
— अस्तु, इतः परं भवान् क्रीडतु। अहं चिन्तां न करिष्यामि एव।अमरः
— अम्ब ! मम शिक्षकः वदति। जीवने पठनमेव प्रधानं न, क्रीडा अपि तदा तदा आवश्यकी। क्रीडति चेत् शक्तिवर्धनं भविष्यति, सदा मनः उल्लसितं भविष्यति। बुद्धिविकासः भविष्यति। अतः क्रीडा अपि प्रधाना इति।माता
— भवतु पुत्र । भवान् उत्तमः भवतु इत्येव मम आशयः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...