आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत वार्तालाप - शाकापणः (Samskrit conversation - शाकापणः)

शाकापणः

  • आपणिकः आगच्छतु! किम् आवश्यकम्?

  • महिला एतस्य कुष्माण्डस्य एककिलोपरिमितस्य कति रूप्यकाणि?

  • आपणिकः तस्य किलोपरिमितस्य अष्टरूप्यकाणि।

  • महिला — अर्धकिलोपरिमितम् आलुकं ददातु।

  • आपणिकः कुष्माण्डं मास्तु वा?

  • महिला — किलोद्वयमितं कुष्माण्डम्, एककिलोपरिमितं गृञ्जनकम्, अर्धकिलो महामरीचिकां ददातु। वृन्ताकम् अपि एककिलोपरिमितम्। वास्तुकानि नष्टानि खलु? उत्तमानि आनीतवान् किम्?

  • आपणिकः उत्तमानि वास्तुकानि स्यूते एव सन्ति। आवश्यकं किम्?

  • महिला — किलोमात्रपरिमितं ददातु। आहत्य कतिरूप्यकाणि इति वदतु शीघ्रं गन्तव्यम्।

  • आपणिकः — आहत्य पञ्चसप्ततिरूप्यकाणि। कारवेल्लं मास्तु वा?

  • महिला — तिक्तम् इत्यतः कारवेल्लं मम गृहे खादन्ति। पर्याप्तम्। अस्मिन् स्यूते सर्वाणि स्थापयतु। धनं स्वीकरोतु।

  • आपणिकः — परिवर्तः नास्ति किम्? अस्तु स्वीकरोतु ।



विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.