वार्षिकोत्सवः
पुत्री
— अम्ब! मम महती बुभुक्षा अस्ति।माता
— सुधे! किमर्थं त्वरा?पुत्री
— अद्य मम विद्यालये वार्षिकोत्सवः अस्ति। तत्र नाटकं, गीतं, नृत्यं, भाषणम् इत्यादयः कार्यक्रमाः सन्ति।माता
— भवती वार्षिकोत्सवे किं करिष्यति?पुत्री
— वृन्दगाने अहम् अस्मि। मम सखी नृत्ये अस्ति। बालकाः केवलं नाटके सन्ति। वयं बालिकाः पुनः यष्टिक्रीडायाम् अपि स्मः। द्वौ बालकौ विनोदनाटके स्तः।माता
— निपुणा खलु मम पुत्री।सखी
— सुधे! कुत्र असि?पुत्री
— अत्र अस्मि। किं? वदतु।सखी
— भवती अद्य कदा विद्यालयं गमिष्यति?पुत्री
— किमर्थम्? भवती अपि गमिष्यति वा?माता
— युवां मिलित्वा कस्मिन्नपि कार्यक्रमे न स्थः वा?पुत्री
— आवां द्वे अपि वृन्दगाने यष्टिक्रीडायां च स्वः।पिता
— पुत्रि! किं कुर्वन्ति मिलित्वा?माता
— अद्य कन्यायाः विद्यालये वार्षिकोत्सवः अस्ति। वयं शीघ्रं गत्वा पुरतः उपविशामः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...