आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत वार्तालाप - शिक्षकः ज्ञानदास्यति (Samskrit conversation - शिक्षकः ज्ञानदास्यति)

शिक्षकः ज्ञानदास्यति

  • छात्रः नमस्ते आचार्य! शिक्षकदिनस्य शुभाशयाः।

  • आचार्यः धन्यवादः वत्स। किं ज्ञायते भवद्भिः,अयं दिवसः किमर्थम् आचर्यते।

  • छात्रः आम् आचार्य! अद्य सर्वपल्ली-राधाकृष्णन् वर्यस्य जन्मदिवसः अस्ति।

  • आचार्यः सत्यम्। ते महान् दार्शनिकः, आचार्यः, भारतस्य राष्ट्रपतिः आसन्।

  • छात्रः ते उक्तवन्तः यत् यदि मम जन्मदिवसः शिक्षकदिवस-रूपेण आचर्यते तर्हि मम कृते गौरवः भविष्यति इति।

  • आचार्यः आम्। अतः अद्यतनः दिवसः सर्वेभ्यः आचार्येभ्यः शिक्षकेभ्यः समर्पितः अस्ति।

  • छात्रः शिक्षकाः एव अस्माकं जीवने दिशां प्रेरणाञ्च ददति।

  • आचार्यः किन्तु छात्राः एव अस्माकं शिक्षक-कर्मणः प्रतिविम्बः भवन्ति।

  • छात्रः वयं प्रामाणिकतया निष्ठया अध्ययनं कर्तुं प्रतिज्ञामहे।

  • आचार्यः अयं मम कृते श्रेष्ठः उपहारः।

  • छात्रः — शिक्षकदिवसः अस्मान् कृतज्ञतां प्रकटयितुम् अवसरं ददाति।

  • आचार्यः मम कृते तु एषः दिवसः छात्र-सफलतायाः प्रगतेश्च उत्सवः।



विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.