आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः

सवर्णग्रहणम्

सवर्णसंज्ञा सवर्णग्राहकता च
ननु प्रत्याहारे आकारादयः दीर्घाः न सन्ति। परन्तु 'नदी अस्ति', 'साधू आगच्छतः' इत्यादिषु 'इको यणचि' (पा.सू. ६-१-७७) सूत्रस्य प्रवृत्तिः कथं भवति? यतो हि इक्-प्रत्याहारे इ, उ, ऋ, ऌ एते एव चत्वारः वर्णाः सन्ति। अतः ईकारादयः कथं गृह्यन्ते इति प्रश्नः।
१. सवर्णसंज्ञा - तुल्यास्यप्रयत्नं सवर्णम् (पा.सू. १-१-९) इति सूत्रेण ययोः वर्णयोः उच्चारणस्थानम् (आस्यम्) आभ्यन्तरप्रयत्नश्च समाने स्तः तौ परस्परं सवर्णौ भवतः।

...


विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.