संस्कृत रचना - जयदेवस्य औदार्यम् (Samskrit text - जयदेवस्य औदार्यम्)
जयदेवस्य औदार्यम्
गीतगोविन्दस्य रचयिता जयदेवः सुप्रसिद्धः महाकविः। कदाचित् तीर्थयात्रां कुर्वतः तस्य सम्मानं कृत्वा जनाः तस्मै धनमपि दत्तवन्तः। केचन लुण्ठकाः जयदेवस्य पाणिपादं कर्तयित्वा एकस्मिन् कूपे प्रक्षिप्य धनम् अपहृतवन्तः। तस्मिन् एव मार्गे गच्छता गौडेश्वरेण लक्ष्मणसेनेन मनुष्यस्य ध्वनिः श्रुता। कूपतः जयदेवम् आनाय्य राजधानीं नीतवान्। बहुवारं पृष्टः अपि जयदेवः स्वस्य पाणिपादं कर्तितवतां लुण्ठकानां विषये किमपि न उक्तवान्। तस्य भगवद्भक्तिं साधुस्वभावं च दृष्ट्वा महाराजः तं स्वस्य आस्थानपण्डितम् अकरोत्।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...