बेङ्गलूरुनगरे अनुभवः
सुधीरः
— अभिराम! भवान् बेङ्गलूरुनगरं गत्वा किं किं दृष्टवान्?अभिरामः
— अहम् पुस्तकापणं गतवान् । तत्र पुस्तकानि दृष्टवान्। कादम्बरीं क्रीतवान्। उपन्यासान् दृष्टवान्।सुधीरः
— तत्र विश्वविद्यालये प्रबन्धकान् दृष्टवान् किम् ?अभिरामः
— विश्वविद्यालये न केवलं प्रबन्धकान्, अपितु बहून् शोधच्छात्रान् दृष्टवान्। अनेकान् लेखान् सङ्गृहीतवान्।सुधीरः
— तत्र प्रसिद्धम् उद्यानं न गतवान् किम्?अभिरामः
— मध्याह्ने वस्तुसंग्रहालयं गतवान्। तत्र अनेकानि वस्तूनि दृष्टवान्। पुरातनानि आयुधानि दृष्टवान्। मार्गदर्शकान् पृष्टवान्। सायम् उद्यानं गतवान्। तत्र वर्णरञ्जितानि पुष्पाणि दृष्टवान्। पुष्पैः शोभमानाः लताः दृष्टवान्। तृणैः निर्मितानि चित्राणि दृष्टवान्।सुधीरः
— तर्हि बेङ्गलुरुनगरं द्रष्टुम् एकं दिनं न पर्याप्तम्। भवान् तत्र कति दिनानि अटितवान्?अभिरामः
— दर्शनीयानि स्थानानि बहूनि सन्ति तत्र। किन्तु कार्यभारकारणतः अहं शीघ्रम् आगतवान्।सुधीरः
— पुनः मिलामि, भवतः अनुभवान् वदतु।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...