किञ्चित् पाठयतु
अनीता
— वत्से! आगच्छतु, स्थालिकां स्थापयतु। भोजनं सिद्धम।पुत्री
— अम्ब! किम् अस्मिन् चषके शर्करा आसीत् ? चपर्क परितः पिपिलिकाः सन्ति।अनीता
— अहो! विस्मृतवती आसम् । चषकं क्षालयित्वा स्थापयतु। अनुजम् अपि आह्वयतु।पुत्री
— दिलीप! उत्पीठिकां परितः पुस्तकानि स्थापितवान् खलु। सदा भवान् पुस्तकानि अव्यवस्थिततया एव स्थापयति। आगच्छतु भोजनार्थम्।अनीता
— दिलीप! स्थालिकां परितः मा पातयतु। सम्यक् भोजनं करोतु ।दिलीपः
— भगिनि! 'परितः' शब्दस्य एकं वाक्यं वदतु। विद्यालये मम स्नेहितः मां पृष्टवान्। अहम् एवम् उक्तवान्-'देवालयं परितः प्रदक्षिणं करोमि' इति । एतत् वाक्यम् अशुद्धम् उत शुद्धमस्ति?पुत्री
— वाक्यं शुद्धमेव अस्ति। एतादृशानि अन्यानि वाक्यानि यथा-'गृहं परितः प्राकारः अस्ति।' 'दीपं परितः कोटाः सन्ति।' 'शिक्षकं परितः छात्राः सन्ति।'अनीता
— इदानीं मौनेन खादन्तु। अनन्तरं पाठयतु भवती।दिलीपः
— भोजनानन्तरं मम प्रकोष्ठम् आगच्छतु। किञ्चित् पाठयतु।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...