शिल्पकारः
पथिकः
— भोः शिलां कुट्टयित्वा कुट्टयित्वा भवान् किंवा करोति ?शिल्पकारः
— अहं गणेशस्य विग्रहं करोमि।पथिकः
— किमर्थं भवान् शिवस्य विग्रहं न करोति ? कि भवान् गणेशस्य भक्तः ?शिल्पकारः
— शिवस्य विग्रहः लिङ्गरूपः, अतः अहं गणेशस्य विग्रहं करोमि ।पथिकः
— भवान् सर्वविधान् विग्रहान् अपि करोति किम् ?शिल्पकारः
— भवते कीदृशः विग्रहः आवश्यकः ? देवस्य चेत् कस्य देवस्य? देव्याः चेत् कस्याः देव्याः ? रामस्य लक्ष्म्याः सरस्वत्याः उत कृष्णस्य ? कस्य विग्रहः आवश्यकः ?पथिकः
— नवरात्रसमये पूजां कर्तुं लक्ष्म्याः विग्रहः आवश्यकः। तथैव पार्वत्याः (गौर्याः) विग्रहः अपि आवश्यकः।शिल्पकारः
— भवते कदा आवश्यकम् ?पथिकः
— मह्यं जुलै-मासस्य १० दिनाङ्के आवश्यकम्। कृत्वा ददाति किम् ? एकस्य विग्रहस्य कृते कति रूप्यकाणि ?शिल्पकारः
— देव्याः इति कारणतः कति रूप्यकाणि इति न वदामि। भवानेव चिन्तयित्वा ददातु।पथिकः
— अस्तु जुलै-मासस्य १० दिनाङ्के आगच्छामि।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...