देहलीं गमिष्यामः
गिरिजा
— विरामसमये कुत्रापि प्रवासं करिष्यामः।पतिः
— आगामिसप्ताहे मम कार्यालयतः पञ्चजनाः नवदेहलीं गमिष्यन्ति इति श्रूयते। वयमपि तैः सह गमिष्यामः।गिरिजा
— देहल्यां कुत्र वासं करिष्यामः?पतिः
— ते सर्वेऽपि धर्मशालायां वासं करिष्यन्ति। भोजनम् उपाहारमन्दिरे करिष्यामः।अजितः
— तात। श्वः आरभ्य मासं यावत् विरामः अस्ति। वयमपि प्रवासार्थं गमिष्यामः।पतिः
— आगामिसप्ताहे प्रवासः भविष्यति। चिन्ता मास्तु।माता
— पुत्रौ उष्णजलं पास्यतः। तत् कथं नेष्यामः।पिता
— समीचीनं जलं मार्गे अपि भविष्यति, तत् वयं क्रेष्यामः।माता
— खाद्यानि वयं प्रथमम् एव क्रेष्यामः। देहल्याम् अतिशैत्यम्। अतः अधिकानि वस्त्राणि स्वीकरोतु।पुत्री
— तत्र गन्तुं कः चिटिकाः क्रेष्यति ?पिता
— अहं चिटिकाः आनेष्यामि।पुत्री
— अग्रज! त्वं कुत्र उपवेक्ष्यसि?अजितः
— अहं वातायनपार्श्वे उपवेक्ष्यामि।माता
— युवां मम पार्श्वे उपवेक्ष्यथः। गमनसमये निद्रां करिष्यथः।पुत्री
— एवं समीचीनम्। तथैव उपवेक्ष्यावः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...