नूतना लेखनी
राकेशः
— किं भोः, नूतना लेखनी वा ? कुतः आनीतवान् ?श्रीशः
— मम अग्रजः ‘न्यूयार्केतः’ आनीतवान्।राकेशः
— वेङ्कटेशः आगतवान् आसीत् किम् ? भवान् किमर्थं तं मम गृहं न आनीतवान् ?श्रीशः
— तस्य समयः एव नास्ति भोः। सः श्वः प्रातः गमिष्यति।राकेशः
— भवान् ह्यः किमर्थं विद्यालयं न आगतवान् ?श्रीशः
— ह्यः आवां द्वौ अपि नगरं गतवन्तौ। ततः बहूनि वस्तूनि आनीतवन्तौ। पश्यतु, एषा पेटिका अपि नूतना।राकेशः
— बहु सम्यक् अस्ति। एतस्याः कति रूप्यकाणि ?श्रीशः
— प्रायः ६५ रूप्यकाणि दत्तवान् इति चिन्तयामि।राकेशः
— श्वः मम गृहं प्रति लखनऊतः बान्धवाः आगमिष्यन्ति। एकः विवाहः अस्ति। तत्र सर्वे गच्छन्ति।श्रीशः
— तर्हि श्वः भवान् विद्यालयं नागमिष्यति ननु ?राकेशः
— अहं विवाहे न गच्छामि। लेखनं बहु अस्ति। अतः गृहे एव भविष्यामि। नूतनया लेखन्या लेखिष्यामि।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...