आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत वार्तालाप - शाटिका आवश्यकी (Samskrit conversation - शाटिका आवश्यकी)

शाटिका आवश्यकी

  • सुबोधा — ममते ! किं करोति भवती? आगच्छति किम् ?

  • ममता कुत्र गच्छसि ?

  • सुबोधा एका शाटिका आवश्यकी। भवती अपि आगच्छतु। आपणं गच्छावः।

  • ममता किञ्चित् तिष्ठतु। आगच्छामि।

  • सुबोधा मम मातुलस्य विवाहः अस्ति। अतः नूतनां शाटिकां क्रीणामि।

  • ममता भवती कं वर्णम् इच्छति। भवत्याः नीलः वर्णः युज्यते।

  • सुबोधा नैव। नीलवर्णस्य हरितवर्णस्य शाटिका मम समीपे अस्ति। पाटलवर्णस्य पीतवर्णस्य वा इच्छामि। पश्यामः। तत्र।

  • ममता कति रूप्यकाणां शाटिकां स्वीकरोति भवती?

  • सुबोधा सामान्यतः त्रिशतरूप्यकाणाम्। ततोऽपि अधिकमूल्यस्य मास्तु। मम माता मम निमित्तम् एकाम् आनयति। सा श्वेतकृष्णवर्णयोः मिश्रिताम् एकां शाटिकां स्वीकृतवती।

  • ममता भवत्याः रक्तवर्णस्य शाटिका बहु उत्तमा अस्ति भोः।

  • सुबोधा किन्तु अहं तां इच्छामि। अहं पाटलवर्णस्य पीतवर्णस्य वा शाटिकां बहु इच्छामि।

  • ममता अस्तु आपणे याम् इच्छति तां स्वीकरोतु ।



विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.