यात्राचिटिकारक्षणम्
प्रबन्धकः
— महेश! अद्य आरक्षणार्थ रेलयाननिस्थानकं गच्छतु। द्वयोः हरिद्वारगमनाय यात्राचिटिकाम् आनयतु।महेशः
— आर्य! अद्य मया सह बालाचार्यः अपि आगच्छति। आवां ततः शिवाजीनगरं गच्छावः।प्रबन्धकः
— अद्य कार्यालयकार्यं नास्ति वा? कदा आगच्छतः?महेशः
— रात्रौ आगच्छावः।प्रबन्धकः
— शिवाजीनगरे कः अस्ति ? बालाचार्य किमर्थं नयति ?महेशः
— शिवाजीनगरे मम भगिनी अस्ति। मम भगिनी बालाचार्यस्यापि बन्धुः। अतः सा उक्तवती-बालाचार्यमपि आनयतु इति। अतः तत्र गच्छावः।प्रबन्धकः
— तत्र कोऽपि विशेषः अस्ति किम्?महेशः
— मम आवुत्तस्य किञ्चित् 'अस्वास्थ्यम्' इति। अतः तत्र गत्वा तं दृष्ट्वा आगच्छावः।प्रबन्धकः
— भवतु, कार्यविषये चिन्तयताम्। शीघ्रं गत्वा आगच्छताम्।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...