मम पतिः भोः!
विमला
— अश्विनि ! पाकः सिद्धः किम् ?अश्विनी
— भोः! अद्य जलमेव नासीत्। भवत्या......विमला
— मम अद्य पाककार्यमेव नास्ति। अद्य वयं विवाहं गच्छामः। किन्तु मम पतिः कार्यालयतः न आगतवान् एव।अश्विनी
— भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम् ?विमला
— सा सङ्गीतं न इच्छति एव। भवत्या किमर्थं सङ्गीतकक्ष्यागमनं पृष्टम्?अश्विनी
— अद्य सा किमपि गीतवती। अहं तत् श्रुतवती। सा सम्यक् गायति। अतः अहं चिन्तितवती एषा सङ्गीतकक्ष्यां गच्छति इति।विमला
— अश्विनि ! अद्य प्रातः काले एव कोऽपि भवत्या सह सम्भाषणं करोति स्म खलु ? कः सः ?अश्विनी
— अद्य प्रातः अहम् अन्येन केनापि सह सम्भाषणं न कृतवती एव। तदस्तु, भवत्या दृष्टः सः कथम् आसीत्?विमला
— सः उन्नतः उपनेत्रधारी, श्वेतः......अश्विनी
— सः! सः एव मम पतिः भोः।विमला
— एवं वा ! दूरात् अहम् अन्यः कोऽपि नूतनः इति चिन्तितवती ।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...