आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत वार्तालाप - परीक्षायै सज्जता (Samskrit conversation - परीक्षायै सज्जता)

परीक्षायै सज्जता

  • शिक्षकः छात्राः! परीक्षा सन्निहिता अस्ति। सम्यक् पठन्तु।

  • अनन्तः परीक्षा कुत्र प्रचलिष्यति ?

  • शिक्षकः सर्वेषु प्रकोष्ठेषु (कक्ष्यासु) क्रमसंख्यां स्थापयामः। परीक्षा अस्माकं विद्यालये एव भविष्यति। इदानीं सर्वे अपि छात्राः बहिः गच्छन्तु।

  • अनन्तः किमर्थम् आचार्य! अद्य एव संख्यां स्थापयन्ति किम् ?

  • शिक्षकः इदानीं भवन्तः सर्वेषु प्रकोष्ठेषु स्वच्छतां कुर्वन्तु। उत्पीठिकासु अपि धूलिं मार्जयन्तु। कृष्णफलकेषु अपि धूलि मार्जयित्वा दिनाङ्कादिकं लिखन्तु।

  • राजीवः आचार्य! सर्वेऽपि कार्य कुर्वन्ति। केचन बहिः अटन्ति।

  • शिक्षकः बालकेषु एकं प्रमुखं करोमि। बालिकासु एकां प्रमुखां करोमि, यदि क्रीडाङ्गणेषु क्रीडन्ति तर्हि दण्डम् आनयामि। कंचन द्रोणीषु जलं पूरयित्वा आनयन्तु।

  • मालती — मार्जनार्थं वस्त्राणि कुत्र सन्ति ?

  • शिक्षकः वस्त्राणि वस्तुसङ्ग्रहप्रकोष्ठे सन्ति। तत्र गत्वा आनयन्तु।

  • छात्रा: आचार्य! वयं गच्छामः। सज्जतां कुर्मः।



विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.