आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत वार्तालाप - प्रीत्या व्यवहरतः (Samskrit conversation - प्रीत्या व्यवहरतः)

प्रीत्या व्यवहरतः

  • आदित्यः — अचिन्त्य! भवान् तत् पुस्तकम् आनयतु।

  • अचिन्त्यः अहं आनयामि। आवश्यकं चेत् नयतु।

  • आदित्यः — भोः, भवान् कदा सन्तोषेण वदति ? सदा कोपं करोति।

  • अचिन्त्यः त्वमपि कदापि प्रीत्या वदसि। आदेशं करोषि।

  • आदित्यः सदा श्रद्धया कार्यं करोतु। विनयेन सम्भाषणं करोतु।

  • अचिन्त्यः गच्छ त्वम्। सदा उपदेशं करोषि।

  • माता किमर्थं कोपेन कलहं कुरुतः ? भवन्तौ सहोदरौ खलु ? आदित्य ! त्वं कोपेन मा तर्जय, सः दुःखेन रोदिति। कदा प्रीत्या व्यवहरतः।

  • आदित्यः अम्ब ! क्षम्यताम्। इतः परं सन्तोषेण एव भवावः।

  • अचिन्त्यः अम्ब ! अद्य मम विद्यालये एकः बालकः भयेन आक्रोशं कृतवान्। शिक्षिका प्रीत्या सान्त्वनां कृतवती। अनन्तरं सः आनन्देन निर्भयेन पठितवान्।

  • माता अस्तु, भवन्तौ अपि एकाग्रचित्ततया पठताम्, भक्त्या नमस्कारं कुरुताम्, परिश्रमेण उत्तम-अङ्कान् प्राप्नुताम्। तदा अहमपि सन्तोषेण भवामि।

  • आदित्यः अस्तु अम्ब ! तथैव कुर्वः।



विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.