प्रीत्या व्यवहरतः
आदित्यः
— अचिन्त्य! भवान् तत् पुस्तकम् आनयतु।अचिन्त्यः
— अहं न आनयामि। आवश्यकं चेत् नयतु।आदित्यः
— भोः, भवान् कदा सन्तोषेण वदति ? सदा कोपं करोति।अचिन्त्यः
— त्वमपि कदापि प्रीत्या न वदसि। आदेशं करोषि।आदित्यः
— सदा श्रद्धया कार्यं करोतु। विनयेन सम्भाषणं करोतु।अचिन्त्यः
— गच्छ त्वम्। सदा उपदेशं करोषि।माता
— किमर्थं कोपेन कलहं कुरुतः ? भवन्तौ सहोदरौ खलु ? आदित्य ! त्वं कोपेन मा तर्जय, सः दुःखेन रोदिति। कदा प्रीत्या व्यवहरतः।आदित्यः
— अम्ब ! क्षम्यताम्। इतः परं सन्तोषेण एव भवावः।अचिन्त्यः
— अम्ब ! अद्य मम विद्यालये एकः बालकः भयेन आक्रोशं कृतवान्। शिक्षिका प्रीत्या सान्त्वनां कृतवती। अनन्तरं सः आनन्देन निर्भयेन पठितवान्।माता
— अस्तु, भवन्तौ अपि एकाग्रचित्ततया पठताम्, भक्त्या नमस्कारं कुरुताम्, परिश्रमेण उत्तम-अङ्कान् प्राप्नुताम्। तदा अहमपि सन्तोषेण भवामि।आदित्यः
— अस्तु अम्ब ! तथैव कुर्वः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...